वाचस्पत्यम्
लशून is an alternate of लशुन. लशु(शू)न || न० अश—उनन् ऊनन् वा धातोरादेर्लश्च । (रशुन) । रसोने भावप्र० । तस्योत्पत्तिगुणादि भावप्र० उक्तं यथा “लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम् । अरिष्टो म्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः । यदामृतं वैनतेयो । जहार सुरसद्मनः । तदा ततोऽपतद्विन्दु स रसो- नोऽपतद् भुवि । पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितः तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः । कटुक- श्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्थितः । वीजे तु मधुरः प्रोक्तो रस स्तद्गुणवेदिभिः । रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरसो मतः । भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः । बलार्णकरो मेधाहितो नेत्र्यो रसायनः । हृद्रोग- जीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान् । दु- र्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति । मद्यं भांसं तथाम्लञ्च हितं लशुनसेविनाम्” । दीर्घमध्यः शब्दर० ।
शब्दकल्पद्रुमः
लशूनः || पुं, (रसेन ऊनः रस्य लत्वम् । पृषो- दरादित्वात् सस्य शः अकारलोपश्च ।)
लशुनः । इति शब्दरत्नावली ॥