वाचस्पत्यम्
लष is an alternate of लश. लश(ष)(स) || शिल्पयोगे चु० उभ० अक० सेट् । लाश(ष)(स)यति ते अलोलश(ष)(स)त् त ।
वाचस्पत्यम्
लष || स्पृहायां दिवा० भ्वा० च उम० सक० सट् । लव्यति—ते लषति ते अलषीत् अलाषीत् अलषिष्ट ललाष लेषे ।
शब्दकल्पद्रुमः
लष || क शिल्पयोगे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।)
क, लाषयति कुशलो नृत्ये शिल्पं युनक्तीत्यर्थः । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
लष || ञ स्पृहि । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।)
ञ, लषति लषते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लष || य ञ स्पृहि । इति कविकल्पद्रुमः ॥ (दिवा०- उभ०-सक०-सेट् ।)
य ञ, लष्यति लष्यते । इति दुर्गादासः ॥