वाचस्पत्यम्
लसिका || स्त्री लस अच् टाप् अत इत्त्वम् । लालायां शब्दच० ।
शब्दकल्पद्रुमः
लसिका || स्त्री (लसतीति । लस् + अच् । ततः कन् ततष्टापि अत इत्वम् ।) लाला । यथा, — “लालायां पिच्छला ख्याता लसिका लासिका तथा ॥” इति शब्दचन्द्रिका ॥