शब्दकल्पद्रुमः
लसीका || स्त्री इक्षुरसः । त्वङ्मांसमध्यगरसः । इति केचित् ॥ (यथा । “लसीका उदक- विशेषः । यथाह चरकः । यत्तु मांसत्वगन्तरे उदकं तल्लसीकाशब्दं लभते ।” इति विजय- रक्षितकृतप्रमेहरोगव्याख्याने ॥ “यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते ।” इति चरके शारीरस्थाने सप्तमेऽध्याये ॥)