वाचस्पत्यम्
लस्ज || व्रीडायां भ्वा० आ० अक० सेट् । लज्जते अलज्जिष्ट । इदित् निष्ठायामनिट् ओदित् निष्ठातस्य नः । लग्नः ।
शब्दकल्पद्रुमः
लस्ज || ई ओ ङ व्रीडे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
क्विपि संयोगादिलोपे लक् । ई ओ, लग्नः । ङ, लज्जते । इति दुर्गादासः ॥