संस्कृत-शब्दकोशः

लाक्षण्य लाक्षातरु

लाक्षा

वाचस्पत्यम्

लाक्षा ||‍ स्त्री लक्ष्यतेऽनया लक्ष—अच् पृषो० वृद्धिः । (ला)ख्याते पदार्थे अमरः । २ रञ्जनद्रव्ये ।


शब्दकल्पद्रुमः

लाक्षा || स्त्री (लक्ष्यतेऽनयेति । लक्ष् + “गुरोश्च हलः ।” ३ । ३ । १०३ । इति अः । टाप् । यद्बा, “बाहुलकात् राजतेरपि सः । कपिलिकादित्वात् वा लत्वम् ।” इत्युज्ज्वलः । ३ । ६२ ।)
रक्त- वर्णवृक्षनिर्यासविशेषः । लाहा इति भाषा ॥ तत्पर्य्यायः । राक्षा २ जतु ३ यावः ४ अलक्तः ५ द्रुमामयः ६ । इत्यमरः ॥ खदिरिका ७ रक्ता ८ रङ्गमाता ९ पलङ्कषा १० क्रिमिहा ११ द्रुम- व्याधिः १२ अलक्तकः १३ पलाशी १४ मुद्रिणी १५ दीप्तिः १६ जन्तुका १७ गन्धमादिनी १८ नीला १९ द्रवरसा २० पित्तारिः २१ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । कषायत्वम् । श्लेष्मपित्तार्त्तिशोफविषरक्तविषमज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ भग्नविसर्पत्वग्दोषनाशि- त्वम् । बल्यत्वञ्च । इति राजवल्लभः ॥ अपि च । “लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरा लघुः । अनुष्णा कफपित्ताम्रहिक्काकासज्वरप्रणुत् ॥ व्रणोरःक्षतवीसर्पकृमिकुष्ठगदापहा । अलक्तको गुणैस्तद्बद्विशेषाद्ब्यङ्ग्यनाशनः ॥” इति भावप्रकाशः ॥ (शतपत्री । सेवती । गुलाव इति च । तत्- पर्य्यायो यथा, —
“शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा । महाकुमारी गन्धाढ्या लाक्षा कृष्णाति- मङ्गुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: