संस्कृत-शब्दकोशः

लाक्षाप्रसाद लाक्षाप्रसाधन

लाक्षाप्रसादन

शब्दकल्पद्रुमः

लाक्षाप्रसादनः || पुं, (लाक्षां प्रसादयतीति । प्र + सद् + णिच् + ल्युः ।)
रक्तलोध्रः । तत्पर्य्यायः । क्रमुकः २ पट्टिका ३ पट्टी ४ । इत्यमरः ॥ (तथास्य पर्य्यायः । “द्वितीयः पट्टिकालोध्रः क्रमुकः स्थूलवल्कलः । जीर्णपत्रो बृहत्पत्रः पट्टी लाक्षाप्रसादनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: