संस्कृत-शब्दकोशः

लाङ्गलग्रह लाङ्गलदण्ड

लाङ्गलचक्र

शब्दकल्पद्रुमः

लाङ्गलचक्रं || क्ली (लाङ्गलाकारं चक्रम् ।)
कृषि- कर्म्मणि शुभाशुभगणन हलाकारचक्रविशेषः । यथा । अथ लाङ्गलचक्रं स्वरोदये । “लाङ्गलं दण्डिकायूपयोक्त्रद्वयसमन्वितम् । दण्डिकादि लिखेत् भानि दिनेशाक्रान्तभादितः ॥ दण्डिकाहलयूपानां द्बिद्विस्थाने त्रिकं त्रिकम् । योक्त्रयोश्च त्रिकञ्चैव मध्ये पञ्चाग्रके द्विकम् ॥ दण्डस्थे च गवां हानिर्यपस्थे स्वामिनो भयम् । लक्ष्मीर्लाङ्गलयोक्त्रे स्यात् क्षेत्रारम्भदिनर्क्षके ॥” इति ज्योतिस्तत्त्वम् ॥



Correction: