वाचस्पत्यम्
लाङ्गूल || न० लगि—ऊलच् पृषो० । पशूनां पाश्चाद्वर्त्तिनि रोम गुच्छे सारसुन्दरी २ शेफे मेदि० ३ कुशूले सि० कौ० ।
शब्दकल्पद्रुमः
लाङ्गूलं || क्ली (लङ्ग + “खर्जिपिञ्जाद्यिभ्य ऊरो- लचौ ।” उणा० ४ । ९० । इति ऊलच् । बाहुलकात् वृद्धिश्च ।)
पशुपश्चाद्वर्त्तिलम्बमान- लोमाग्रावयवविशेषः । ल्याज इति भाषा । तत्पर्य्यायः । पुच्छम् २ लूम ३ वालहस्तः ४ बालधिः ५ । इत्यमरः ॥ लङ्गूलम् ६ लाङ्गुलम् ७ लुलामः ८ अवालः ९ । इति शब्दरत्नावली ॥ लञ्जः १० पिच्छः ११ बालः १२ । इति जटा- धरः ॥ (यथा, कुमारे । १ । १३ । “लाङ्गूलविक्षेपविसर्पिशोभै- रितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्ब्बन्ति बालव्यजनैश्चमर्य्यः ॥”)
गोलाङ्गूलजलमाहात्म्यं यथा, —
“लाङ्गूलेनोद्धृतं तोयं मूर्द्ध्ना गृह्णाति यो नरः । सर्व्वतीर्थफलं प्राप्य सर्व्वपापैः प्रमुच्यते ॥” इति वाराहपुराणम् ॥ शेफः । इति मेदिनी । ले, १२७ ॥ कुशूलः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥