वाचस्पत्यम्
लामज्जक || न० लायते ला—क्विप् लाः आदीयमानः मज्जा सारो यस्य कप् । वीरणमूले अमरः ।
शब्दकल्पद्रुमः
लामज्जकं || क्ली वीरणमूलम् । इत्यमरः ॥ अस्य पर्य्यायगुणावुशीरशब्दे द्रष्टव्यौ । उशीरवत्- पीतच्छवितृणविशेषः । तत्पर्य्यायः । सुना- लम् २ अमृणालम् ३ लवम् ४ लघु ५ इष्टिका पथिकम् ६ शीघ्रम् ७ दीर्घमूलम् ८ जला- शयम् ९ । अस्य गुणाः । हिमत्वम् । तिक्त- त्वम् । वातपित्ततृड्दाहश्रममूर्च्छार्त्तिरक्त- ज्वरापहत्वञ्च । इति राजनिर्घण्टः ॥