संस्कृत-शब्दकोशः

लामज्जक लालसा

लालन

वाचस्पत्यम्

लालन ||‍ न० चु० लल—ल्युट् । स्नेहपूर्वकपालने ।


शब्दकल्पद्रुमः

लालनं || क्ली (लल् + णिच् + ल्युट् ।)
अत्यन्त- स्नेहकरणम् । प्रेमपूर्ब्बकवालकादरणम् । सोहाग इति भाषा । लड कोपसेवे उपसेव इह अत्यन्तपालनम् । क, लालयेत् पञ्च वर्षाणि पुत्त्रमिति अत्र डलयोरेकत्वाल्लत्वम् । इति कविकल्पद्रुमटीकायां दुर्गादासः ॥ तथा हि । “लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात् पुत्त्रञ्च शिष्यञ्च ताडयेन्न तु लालयेत् ॥” अपि च । “लालयेत् पञ्च वर्षाणि दशवर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्त्रं मित्रवदाचरेत् ॥” इति चाणक्यशतकम् ॥



Correction: