संस्कृत-शब्दकोशः

लालन लालसीक

लालसा

वाचस्पत्यम्

लालसा ||‍ स्त्री लस—स्पृहायां यङ् लुक् भाव अ । १ अतिश- येच्छायाम् अमरः । २ गर्भिणीदोहदे हेमच० । ३ याच्ञायां औत्सुक्ये च मेदि० । कर्त्तरि अच् । ५ लोले त्रि० हेमच० ।


शब्दकल्पद्रुमः

लालसा || पुं स्त्री, (लस् + यङ् । ततः “अ प्रत्य- यात् ।” ३ । ३ । १०२ । इति अः । टाप् ।)
महाभि- लासः । इत्यमरः ॥ औत्सुक्यम् । याच्ञा इति मेदिनी । से, ३४ ॥ दोहदम् । यथा, —
“दोहदं दौर्हृदं श्रद्धा लालसा सूतिमासि तु ।” इति हेमचन्द्रः ॥ लोलः । इति नानार्थे स एव ॥ (लोलुपे, त्रि । इति यादवः ॥ यथा, माघे । ४ । ६ । “छायां निजस्त्री चटुलालसानां मदेन किञ्चित् चटुलालसानाम् । कुर्व्वाणमुत्पिञ्जरजातपत्रै- र्विहङ्गमानां जलजातपत्रैः ॥” तथा च कुमारे । ७ । ५६ । “तस्मिन् मुहूर्त्ते पुरसुन्दरीणा- मीशानसन्दर्शनलालसानाम् ॥”)



Correction: