संस्कृत-शब्दकोशः

लालाटिक लालायित

लालामेह

शब्दकल्पद्रुमः

लालामेहः || पुं, (लालावत् मेहतीति । मिह + अच् ।)
प्रमेहविशेषः । यथा, —
“लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ।” प्रमेहतीति शेषः । अस्यौषधम् । “गुडूच्याः स्वरसः पेयो मधुना सर्व्वमेहजित् । हरिद्राचूर्णयुक्तो वा रसो धात्र्याः समा- क्षिकः ॥” अपि च । “चन्द्रप्रभा वचा मुस्ता भूनिम्बं सुरदारु च । हरिद्रातिविषा दार्व्वी पिप्पलीमूलचित्रकम् ॥ तृवृद्दन्तीपत्रकञ्च त्वगेला वंशलोचना । प्रत्येकं कर्षमात्राणि कुर्य्यादेतानि बुद्धिमान् ॥ धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली । सुवर्णमाक्षिकं व्योषं द्वौ क्षारौ लवणत्रयम् ॥ एतानि टङ्कमात्राणि संगृह्णीयात् पृथक् पृथक् । द्विकर्षहतलोहं स्याच्चतुः कर्षा सिता भवेत् ॥ शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः । विधिना योजितैरेतैः कर्त्तव्या गुटिका शुभा ॥ चन्द्रप्रभातिविख्याता सर्व्वरोगप्रणाशिनी । निहन्ति विंशतिं मेहान् कृच्छ्रमष्टविधं तथा ॥” इत्यादि भावप्रकाशः ॥ (तथास्य लक्षणान्तरम् । “तन्तुबद्धमिवालालं पिच्छिलं यः प्रमेहति । आलालमेहिनं विद्यात्तं नरं श्लेष्मकोपतः ॥” इति चरके निदानस्थाने चतुर्थेऽध्याये ॥)



Correction: