वाचस्पत्यम्
लालास्राव || लालां स्रावयति स्रु—णिच्—अण् । लूताकीटे हेमच० ।
शब्दकल्पद्रुमः
लालास्रावः || पुं, (लालां स्रावयतीति । स्रु + णिच् + अण् ।)
ऊर्णनाभः । इति हेमचन्द्रः ॥ (लालाक्षारके, त्रि । यथा, सुश्रुते । २ । १६ । “ललास्रावी स विज्ञेयः कण्डूमान् शौषिरो गदः ॥”)