वाचस्पत्यम्
लालित्य || न० ललितस्य भावः ष्यञ् । १ सौन्दर्प्ये २ मनो- हरत्वे “नैषधे पदलालित्यम्” इत्युद्भटः ।
शब्दकल्पद्रुमः
लालित्यं || क्ली (ललित + ष्यञ् ।)
ललितस्य भावः । यथा, —
“प्रीतिं भक्तजनस्य यो जनयते विघ्नं विनिघ्नन् स्मृत- स्तं वृन्दारकवृन्दवन्दितपदं नत्वा मतङ्गाननम् । पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटां संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीला- वतीम् ॥” इति लीलावती ॥