संस्कृत-शब्दकोशः

लालित्य लावक

लाव

वाचस्पत्यम्

लाव ||‍ पुंस्त्री० लू—कर्त्तरि संज्ञायां घञ् । १ पक्षिभेदे अमरः । स्त्रियां ङीष् । स्वार्थे क । तत्रैव भावे घञ् । २ छेदने ।


शब्दकल्पद्रुमः

ला(ब)वः || पुं स्त्री, पक्षिविशेषः । लाओया इति भाषा । इत्यमरभरतौ ॥ (यथा, सुश्रुते । ४ । ८ । “ग्राम्यानुपोदकैर्म्मांसै र्लाबाद्यैर्व्वापि विष्किरैः ॥”)
अस्य मांसगुणाः । लघुत्वम् । कटुत्वम् । मल- बद्धकारित्वम् । स्वादुत्वम् । शीतत्वम् । त्रिदोष- नाशित्वञ्च । इति राजवल्लभः ॥ (तथा च । “संग्राही दीपनश्चैव कषायो मधुरो लघुः । लावः कटुविपाकश्च सन्निपाते च पूजितः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
(यथास्य गुणपर्य्यायौ । “लावा विष्किरवर्गेषु ते चतुर्धा मता बुधैः । पांशुलो गौरकोऽन्यस्तु पौण्ड्रकोदर्भरस्तथा ॥ लावा वह्निकराः स्निग्धा गरघ्ना ग्राहिका हिताः ॥ पांशुलः श्लेष्मलस्तेषु वीर्य्योष्णोऽनिलनाशनः । गौरो लघुतरो रूक्षो वह्रिकारी त्रिदोषजित् ॥ पौण्ड्रकः पित्तकृत् किञ्चिल्लघुवातकफापहः । दर्भरोरक्तपित्तघ्नो हृदामयहरो हिमः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)



Correction: