वाचस्पत्यम्
लावणिक || न० लवणे संस्कृतम् ठण् । १ लवणे संस्कृतौषधादौ हेमच० । लवणं पण्यमस्य ठण् । २ लवणविक्रयोपजी- विनि वणिग्भेदे च ।
शब्दकल्पद्रुमः
लावणिकं || त्रि (लवण + ठञ् ।)
लवणेन संस्कृ- तम् । इति हेमचन्द्रः ॥ लवणसम्बन्धि च । लबणविक्रेतरि, पुं । (यथा, माघे । १० । ३८ । “लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ॥”)
लवणपात्रे, क्ली । इति केचित् ॥