वाचस्पत्यम्
लास्य || न० लस—ण्यत् । १ नृत्ये अमरः । २ वाद्यनृत्यगीति- त्रिके मेदि० । “स्त्रीनृत्यं लास्यमुच्यते” इत्युक्ते ३ स्त्री- तृत्ये च । स्वार्थे अ । तत्रैव ।
शब्दकल्पद्रुमः
लास्यं || क्ली (लस् + “ॠहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।)
नृत्यम् । इत्यमरः ॥ तौर्य्यत्रिकम् । इति मेदिनी ॥ भावाश्रयं नृत्यम् । ताललयाश्रयं नृत्यम् । इति भरतः ॥ “पुंनृत्यं ताण्डवं प्राहुः स्त्रीनृत्यं लास्यमुच्यते ।” इति सङ्गीतनारायणे नारदसंहिता ॥ (यथा, महाभारते । १ । ९८ । १० । “सम्भोगस्नेहचातुर्य्यैर्हावलास्यमनोहरैः । राजानं रमयामास तथा रेमे तथैव सः ॥”)
शब्दकल्पद्रुमः
लास्यः || पुं, (लास्यमस्त्यस्येति । लास्य + अच् ।)
नर्त्तकः । इति शब्दरत्नावली ॥