वाचस्पत्यम्
लिक्का is an alternate of लिक्षा. लिक्षा(क्का) || स्त्री लिश—गतौ क्स षडकषत्वानि पृषो० वा क्वश्च । १ यूकाण्डे शब्दर० । “जालान्तरगते भानौ यच्चाणु दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा” २ इत्युक्ते परिमाणभेदे च ।
शब्दकल्पद्रुमः
लिक्का || स्त्री लिक्षा । इति शब्दरत्नावली ॥