वाचस्पत्यम्
लिखन || न० कु० लिख—भावादौ ल्युट्! १ लेखने २ लिपौ च
शब्दकल्पद्रुमः
लिखनं || क्ली लेखनम् । लिपिः । इत्यमरटीकायां सारसुन्दरी ॥ (यथा, मार्कण्डेये । ५१ । २२ । “प्रसिद्धमन्त्रलिखनात् शस्तमाल्यादिधारणात् । विशुद्धगेहावसथादनायासाच्च वै द्विज ! ॥”)
विधिलिपिरखण्डनीया यथा, —
“यस्य यल्लिखनं पूर्व्वं यत्र काले निरूपितम् । तदेव खण्डितुं राधे क्षन्ये नाहञ्च को विधिः ॥ विधातुश्च विधाताहं येषां यल्लिखनं कृतम् । ब्रह्मादीनाञ्च क्षुद्राणां न तत् खण्ड्यं कदाचन ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १५ अध्यायः ॥