शब्दकल्पद्रुमः
लिङ्गवर्द्धः || पुं, (लिङ्गं वर्द्धयतीति । वृध् + णिच् + अच् ।)
कपित्थवृक्षः । इति शब्दचन्द्रिका ॥ शिश्नवृद्धिकरणम् । तस्यौषधं यथा, —
“कटुतैलं भल्लातकं बृहतीफलदाडिमम् । वल्कलैः साधितं लिप्तं लिङ्गं तेन विवर्द्धते ॥” अपि च । “कुष्ठमाषमरीचानि तगरं मधुपिप्पली । अपामार्गाश्वगन्धा च वृहती सितसर्षपाः ॥ यवास्तिलं सैन्धवञ्च पाणिकोद्वर्त्तनं शुभम् । लिङ्गबाहुस्तनानाञ्च कर्णयोरृद्धिकृद्भवेत् ॥” इति गारुडे १८० अध्यायः ॥