वाचस्पत्यम्
लिङ्गवृत्ति || पु० लिङ्गं संन्यासादिवेशधारणमेव वृत्तिः जी- विका यस्य । जीविकार्थसन्न्यासचिह्नादिधारिणि कपट- परिव्राजके अमरः ।
शब्दकल्पद्रुमः
लिङ्गवृत्तिः || पुं, (लिङ्गमेव वृत्तिर्जीवनोपायो यस्य ।)
जीविकार्थजटादिचिह्नधारी । तत्- पर्य्यायः । धर्म्मध्वजी २ । इत्यमरः । २ । ७ । ५४ ॥ “जीविकादिनिमित्तन्तु यो बिभर्त्ति जटादिकम् । धर्म्मध्वजी लिङ्गवृत्तिर्द्वयं तत्र निगद्यते ॥” इति शब्दरत्नावली ॥