शब्दकल्पद्रुमः
लिष्वः || पुं, नर्त्तकः । लषधातोः कर्त्तरि वन्प्रत्य- येन निपातनात् सिद्धः । उपधाया इत्त्वमपि । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः । १ । १५३ ॥ (लष्व इति पाठः साधुः ॥)