वाचस्पत्यम्
लिह || आस्वादने अदा० उभ० सक० अनिट् । लेढि लीढे । अलिक्षत् त ।
शब्दकल्पद्रुमः
लिह || ल ञ औ स्वादे । इति कविकल्पद्रुमः ॥ (अदा०-उभ०-सक०-अनिट् ।) ल ञ, लेढि पुष्पाणि षट्पदः । लीढे । औ, अलिक्षत् । इति दुर्गादासः ॥