वाचस्पत्यम्
लीलोद्यान || न० लीलार्थमुद्यानम् । १ क्रीडनार्थे आरामे, २ देववने च त्रिका० ।
शब्दकल्पद्रुमः
लीलोद्यानं || क्ली (लीलार्थमुद्यानम् ।)
देववनम् । इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्- सागरे । १०९ । ४१ । “अथ मानसमुल्लङ्घ्य देवर्षिव्रातसेवितम् । अतीत्य गण्डशैलञ्च लीलोद्यानं द्युयोषिताम् ॥”)