संस्कृत-शब्दकोशः

लीलोद्यान लुङ्गुष

लुक्कायित

वाचस्पत्यम्

लुक्कायित ||‍ त्रि० लुच्यते लुन्च—अपनयने क्विप् लुक् कायो यस्य तादृश इवाचरति लुक्काय + क्विप्—क्त । अन्तर्हितदेहे


शब्दकल्पद्रुमः

लुक्कायितः || त्रि (लुक् कायस्य यस्य तादृश इवा- चरतीति । लुक्काय + क्विप् । ततः क्तः ।)
अन्तर्हितः । यथा । अन्तर्धानं लुक्कायनमिति यावत् । यथा गुरोरन्तर्द्धत्ते शिशुः निलीयते यलायते लुक्कायते लुक्कायतीति लुञ्चापनयने- ऽपि लुक् । लुक् कायः शरीरं यस्य स लुक्कायः ततः स इव आचरतीति क्वौ साध्यम् । इति कारकटीकायां दुर्गादासः ॥ कर्म्मणि क्तप्रयेन निष्पन्नोऽयम् ॥



Correction: