संस्कृत-शब्दकोशः

लुट लुठन

लुठ

वाचस्पत्यम्

लुठ ||‍ उपघाते भ्वा० पर० सक० सेट् । लोठति अलोठीत् ।


वाचस्पत्यम्

लुठ ||‍ चौर्य्ये चु० उभ० सक० सेट् । लोठयति ते अलूलुठत् त ।


वाचस्पत्यम्

लुठ ||‍ प्रतिघाते भ्वा० आ० लुङि उभ० सक० सेट् । लोठते । अलुठत् अलोठिष्ट । ऋदित् चङि न ह्रस्वः ।


वाचस्पत्यम्

लुठ ||‍ लोठे तु० कु० प० अक० सेट् । लुठति अलुठीत् ।


शब्दकल्पद्रुमः

लुठ || इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च-सेट् ।)
इ, लुण्ठ्यते । आलस्यं मन्दीभावः । स्तेयं चौर्य्यम् । खोटः खोडनम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लुठ || उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
लोठति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लुठ || ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ऌ, अलुठत् । ङ, लोठते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लुठ || क चौर्य्ये । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क, लोठयति । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

लुठ || शि लोटे । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।)
शि, लुठति अलुठीत् लुलोठ । लोटः सम्बन्धीमावः । हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । इति दुर्गा- दासः ॥



Correction: