वाचस्पत्यम्
लुड || मन्थने भ्वा० पर० सक० सेट् । लोडति अलोडीत् ।
वाचस्पत्यम्
लुड || संवृतौ सक० श्लेषे अक० तु० कु० पर० सेट् । लुडति अलुडीत् । लुडनम् ।
शब्दकल्पद्रुमः
लुड || मन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
लोडति । मन्थो विलोडनम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुड || शि संवृतौ । श्लेषे । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-सेट् ।)
शि, लुडति अलुडीत् लुलोड । इति दुर्गादासः ॥