संस्कृत-शब्दकोशः

लुण्ड लुण्डी

लुण्डिका

शब्दकल्पद्रुमः

लुण्डिका || स्त्री (लुण्डी । स्वार्थे कन् । ततष्टाप् ।)
न्यायसारिणौ । इति हारावली ॥ एकत्र वेष्टित- मेषलोमादिः । लुडि इति नुटि इति च भाषा ॥ यथा, —
“सैन्धवञ्च घृताभ्यक्तं ताम्रभाजनमातपे । प्रतप्तमूर्णया घृष्टं तन्मलञ्च समाहरेत् ॥” ताम्रभाजने धृतं सैन्धवं दत्त्वा रौद्रे तप्तं कृत्वा मेषलोमलुण्डिकया घृष्ट्वा मलग्रहं कृत्वा तेन म्रक्षयेत् । इति भैषज्यरत्नावली ॥



Correction: