वाचस्पत्यम्
लुभ || आकाङ्क्षायां दि० पर० सक० सेट् । लुभ्यति । इरित् अलुभत्—अलोभीत् ।
वाचस्पत्यम्
लुभ || विमोहने तु० पर० अक० सेट् । लुभति अलोभीत् ।
शब्दकल्पद्रुमः
लुभ || य इर् गार्ध्ये । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।)
गार्ध्यमाकाङ्क्षा । य, लुभ्यति धनं लुब्धः । इर्, अलुभत् अलोभीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लुभ || श विमोहने । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-अक०-सेट् ।)
श, लुभत्यात्मनि कामे च । इति हलायुधः ॥ लोभिता लोब्धा । इति दुर्गादासः ॥