शब्दकल्पद्रुमः
लुब्धकः || पुं, (लुब्ध एव । स्वार्थे कन् ।)
व्याधः । इत्यमरः ॥ (यथा, कथासरित्सागरे । ८ । २४ । “आस्माकमीदृशं मांसं ददते लुब्धका इति ॥”)
लम्पटः । इति लुब्धशब्दार्थदर्शनात् ॥ (पायुः । यथा, भागवते । ४ । २५ । ५३ । “निरृतिर्नाम पश्चाद्द्बास्तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥”)