संस्कृत-शब्दकोशः

लुलापकान्ता लुष

लुलित

वाचस्पत्यम्

लुलित ||‍ त्रि० लुल क्त । १ आन्दोलिते, २ चालिते च “अथ लुलितपतत्त्रिमालम्” भट्टिः ।


शब्दकल्पद्रुमः

लुलितः || त्रि (लुल + क्तः ।)
आन्दोलितः । यथा, “प्रेङ्क्षोलितस्तरलितो लुलितान्दोलितावपि ॥” इति भूरिप्रयोगः ॥ (यथा, कथासरित्सागरे । ३७ । ७० । “हत्वा रथाश्वांश्चिच्छेद शिरो लुलितकुण्ड- लम् ॥” विकीर्णः । इति श्रीधरः ॥ यथा, भागवते । १ । ९ । ३४ । “युधि तुरगरजो विधूम्रविष्वक् कचलुलितश्रमवार्य्यलङ्कृतास्ये ॥” व्याप्तः । यथा, रामायणे । २ । ६५ । १९ । “न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥” ग्लानः । यथा, आर्य्यासप्तशत्याम् । “प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहै- रङ्गैः । जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ॥” उन्मूलितः । यथा, भागवते । ३ । १९ । २४ । “विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतत् यथा नगेन्द्रो लुलितो नभस्वता ॥” खण्डितः । यथा, तत्रैव । ४ । ९ । १० । “किम्बन्तकासिलुलितात् पततां विमानात् ॥” विध्वस्तः । यथा, तत्रैव । ७ । ९ । २३ । “येऽस्मत्पितुः कुपितहासविजृम्भितभ्रू- विस्फूर्ज्जितेन लुलिताः स तु ते निरस्तः ॥”)



Correction: