शब्दकल्पद्रुमः
लूनिः || स्त्री (लू + क्तिन् । “ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवतीति वक्तव्यम् ।” ८ । २ । ४४ । इत्यस्य वार्त्तिकोक्त्या तस्य नः ।) छेदः । इति मुग्धबोधव्याकरणम् ॥ (ब्रीहिः । इत्युज्ज्वल- दत्तः । ४ । १०५ ॥)