शब्दकल्पद्रुमः
लेखहारकः || पुं, (लेखहार एव । स्वार्थे कन् ।) पत्रवाहकः । (यथा, कथासरित्सागरे । ३९ । १९० । “आह्वानाय स्वनगरे स्थितेनोच्छृङ्खलस्थितेः । भ्रातुर्धूमशिखस्येह प्रहितो लेखहारकः ॥”)