वाचस्पत्यम्
लेख्य || त्रि० लिख—ण्यत् । १ लेखनीये । २ व्यवहारे स्वत्वाढ्या वेदके पत्रभेदे न० । तल्लक्षणादि वीरमि० उक्तं यथा “अथ लेख्यं निरूप्यते । तत्र वृहस्पतिः “साक्षिणा- मेष निर्दिष्टः संख्यालक्षणनिश्चयः । लिखित- स्याधुना वच्मि विधानमनुपूर्वशः । पाण्मासिकेऽपि समये भ्रान्तिः सञ्जायते नृणाम् । पात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा । राजलेख्यं स्थानकृतं स्वहस्तलिखितन्तथा । लेख्यन्तु त्रिविधम्प्रोक्तं भिन्नन्त- द्वहुथा पुनः । भागदानक्रयाधानसंविद्दास ऋणादिभिः । सप्तधा लौकिकं लेख्यन्त्रिविधं राजशासनम्” । मरीचि रपि “स्थावरे विक्रयाधाने विभागे दान एव च । लिखिते- नाप्नुयात् सिद्धिमविसंवादमेव च” विभागो दायभागः आधानमाधीकरणश संवित्समयः आदिशब्देन विशुद्ध्या- दिग्रहणम् । भागपत्रादीनां लक्षणमाह वृहस्पतिः “भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् । विभाग पत्रं कुर्वन्ति १ भागलेख्यन्तदुच्यते । भूमिन्दत्त्वा तु यत्पत्रं कुर्याच्चन्द्रार्ककालिकम् । अनाच्छेद्यमनाहार्य्यन्दान- लेख्यन्तु २ तद्विदुः । गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्या- क्षरान्वितम् । पत्रं कारयते यत्तु ३ क्रयलेख्यन्तदुच्यते । जङ्गमं स्थावरम्बन्धं दत्त्वा लेख्यङ्करोति यः । गोप्य- भोग्यक्रियायुक्तमाधिलेख्य ४ न्तदुच्यते । ग्रामे देशे च यत्कुर्य्यात् सत्यलेख्यम्परस्परम् । राजाविरोधिधर्म्लार्थं संवित्पत्र ५ वदन्ति तत् । वस्त्रान्नहीनः कान्तारे लि- खितं कुरुते तु यः । कर्म्माणि ते करिष्यामि दासपत्र ६- न्तदुच्यते । धनं वृद्ध्व्या गृहीत्वा तु स्वयं कुर्य्याच्च कार- येत् । उद्धारपत्रन्तत्प्रोक्तमृणलेख्यं ७ मनीषिभिरिति” । विशुद्धिपत्रमुक्तं कात्यायनेन “अभिशापे समुत्तीर्णे प्राय- श्चित्ते कृते बुधैः । विशुद्धिपत्रकन्देयन्तेभ्यः साक्षिसमन्वि तम्” । सन्धिपत्रमप्याह स एव “उत्तमेषु समस्तेषु अभि- शापे समागते । वृत्तानुवादलेख्यं यत् तज्ज्ञेयं सान्ध पत्रकम्” । अन्वाधिपत्रमाह प्रजापतिः धनी धनेन तेनैव परमाधिं नयेद्यदि । कृत्वा तदाधिलिखितं पूर्वं वाऽस्य समर्पयेत्” । पूर्वमाधिपत्रम् । सीमापत्रमप्याह कात्यायनः सीमाविवादे निर्णीते सीमापत्रं विधीयते” इति । ऋणशोधने कृते ऋणपत्रनाशादौ सति प्राप्तिपत्रमुत्तमर्णेवाधसर्णाय देयमित्याह याज्ञबल्क्यः “दत्त्वर्णम्पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत्” । अत्र लौकिक सप्तविधं लेख्यं स्वकृतान्यकृतभेदेन द्विविधन्नारदे नोक्तम् “लेख्यन्तु द्विविधं प्रोक्तं स्यहस्तान्यकृतन्तथा” । स्वकृते साक्ष्यनियमोऽम्यकृते तन्नियम इत्याहोत्तरार्द्धेन स एव “असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयो- रिति” । असाक्षिमदपीत्यर्थः । याज्ञवल्क्यः “विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितञ्च यत् । तत्प्रमाणं स्मृतं सर्वं बलोपधिकृताछते । इत्यपिशब्दः प्रागुक्तबलोप- धिकृतत्वपर्थ्यदासः सर्वलेख्यविषयो न स्वकृतमात्र- विषयः । तथा च मनुः “बलाद्भुक्तं बलाद्दत्तं बलाद् यच्चापि लेखितम् । सर्वान् बलकृतानर्थानकृतान्ममु- रब्रवीत्” । नारदोऽपि “मत्ताभियुक्तस्त्रीबालवलात्- कारकृतञ्च यत् । तदपमाणं लिखितं भयोपधिकृत- न्तथेति” । अन्यकृते विशेषान्तरमाह योगीश्वरः “यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यन्तु साक्षिमत्कार्य्यं तस्मिन्धनिकपूर्वकम् । समामासतद- र्द्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृ- नामा दिचिह्नितम्” । धनिकनामपूर्वकमित्यनेनोत्तमर्ण- नामोपरि लेख्यमधमर्णनाम तदध इत्यर्थः । एतदधमर्ण- पत्रादिविषयमन्यत्राऽसम्भवात् । समामासादि यथा सम्भवमन्यत्रापि सब्रह्मचारिकम्बह्वृचादिशाखाप्रयुक्त- गुणनाम वह्वृचः कठ इत्यादि । वशिष्ठोऽपि “कालं निवेश्य राजानं स्थानं निवसनन्तथा । दायकं ग्राहकञ्चैव पितृनाम्ना च संयुतम् । जातिडोत्रञ्च शाखाञ्च द्रव्य- माधिं ससङ्ख्यकम् । वृद्धिं ग्राहकहस्तञ्च विदितार्थौ च साक्षिणौ” । स्थानं जनपदः । निवसनं पुरग्रामादिकं ग्राहकोऽधमर्णः । तन्निवेशनप्रकारमाह योगीश्वरः “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशवेत् । मतं मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितमिति” । साक्षिणा- वित्यनेन द्वयोरम्यनुज्ञानात् अवरत्वनियमो नात्रेत्युक्त- मेकस्तु न भवत्येवेति । अत्र साक्षिलेखकाभ्यां स्यहस्त- चिह्नं कार्य्यमित्यप्याह स एव “साक्षिणश्च स्यहस्तेन पिवृनामकपूर्वकम् । अत्राहममुकः साक्षी लिक्षेयुरिति ते समाः । उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” । समा इत्यनेन गुणसाम्य सङ्ख्यासाम्यञ्च वैषम्यानियमाय विव- क्षितम् । असमा इत्यकारप्रश्लेषस्तु वैषम्यस्य सामान्यत एव साक्षिषु प्राप्तेर्नोपादेयः । ऋणिसाक्षिणोः सर्वथा लिप्यनभिज्ञत्वे नारद आह “अलिपिज्ञ ऋणी यः स्यात् स्वमतं स तु लेखयेत् । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः इति । त्रिविधं राजशासनमित्युक्तम् त्रैविध्यं विविनक्ति वृह- स्पतिः “दत्त्वा भूम्यादिकं राजा ताम्रपद्दे पटेऽथ वा । शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम् । मातापित्रो- रात्मनश्च पुण्यायामुकसूनवे । दत्तम्मयामुकायाद्य दानं सब्रह्मचारिणे । चन्द्रार्कसमकालीनं पुत्त्रपौत्रान्वया- नुगम् । अनाच्छेद्यमनाहार्य्यं सर्वभागविवर्जितम् । दातुः पालयितुः स्वर्ग्यं हर्त्तुर्नरकमेव च । षष्टिं वर्पसहस्राणि दानाच्छेदफलं लिखेत् । ज्ञातं मयेति लि- खित सन्धिविग्रहलेखकैः । समुद्रं वर्षमासादिधनाध्यक्षा- क्षरान्वितम् । एवंविधं राजकृतं शासनं १ समुदाहृतम् । देशादिकं यस्य राजा लिखितेन प्रयच्छति । सेवा- शौर्य्यादिना तुष्टः प्रसादलिखित २ न्तथा । पूर्वोत्तरक्रिया- वादनिर्णयान्ते यदा नृपः । प्रदद्याज्जयिने लेख्यं जयपत्रं ३ तदुच्यते” । सब्रह्मचारिणे अमुकशाखा ध्यायिने । सर्वभागविवर्जितम् सकलराजपुरुषादि देयांशरहितम् । योगीश्वरः शासनपत्रमाह “भूमिं दत्त्वा निबन्धं वा कृत्वा लेख्यत्तु कारयेत् । आगामि भद्रनृपतिपरिज्ञानाय पार्थिवः । पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनोऽवंश्यानात्सानञ्च महीपतिः । प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसम्पन्न शामनं कारयेत् स्थिरमिति” । इयन्ति पर्णक्रमुकभारादावियन्ति पर्णक्रमुकादीन्यस्मै देयानीति राज्ञो नियतदानाज्ञानिबन्धं कारयेत् सन्धिविग्रहाद्यधि- कारिद्वारेत्यर्थात् । तथा च व्यासः “राज्ञा तु स्वय- मुद्देष्टः सन्धिविग्रहलेखकः । ताम्रपट्टे पटे वापि प्रलिखेद्राजशासनमिति” । प्रतिगृह्यत इति प्रतिग्रहो भूम्यादिस्तत्परीमाणं प्रतिग्रहपरीमाणं उपसर्गस्य दीर्घो बाहुलकः । दीयत इति दानम् भूम्यादि तस्य च्छेदः क्षेत्रादेर्मर्य्यादा तदुपवर्णनं तन्निर्देशम् । आत्मवंश्यादी- नभिलिख्येत्यन्वयः । इदञ्च साधुशब्दैरेव लेखनीयं न लौकिकवत्तदनियमः । तथा च संग्रहकारः “राजा स्वहस्तचिह्नेन राजादेशेन संयुतम् । युक्तं राजाभि- धानेन मण्डितं राजमुद्रया । सुलिप्यनपशब्दोक्तिसम्पू- र्णापयवाक्षरम् । शासनं राजदत्तं स्यात् सन्धिपिग्रह- लेखकैः” । अन्तिमपादोत्तरं लिखितमिति शेषः । तस्मि- न्निव लौकिके देशभाषादिप्रतिशेधो नेत्याह नारदः “देशाचाराविरुद्ध यद्व्यक्तापिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति” । शासने राज्ञा स्वहस्तेनैव स्वसम्मतं लेख्यमित्यप्याह व्यासः “सन्निवेशं प्रमाणञ्च स्वहस्तेन लिखेत्स्वयम् । मतम्मेऽमुकपुत्त्रस्य अमुकस्य महीपतेः” । सन्निवेशं प्रमाणञ्चेत्यस्य गूर्ववाक्ये प्रलिखेदित्यत्रान्वयः तयोराजस्वहस्तलिखनानियमात् । इदञ्च राज्ञा प्रतिग्रहीत्रे समर्पणीयमित्याह विष्णुः “पटे वा ताम्रपट्टे वा लिखितं स्वमुद्राङ्कमागामि नृपतिपरिज्ञानार्थे दद्यादिति” । अतएप दत्तापहार- दोषप्रतिपादनमपि भाविनृपप्रत्यायनार्थं तत्रावश्यक- मित्यप्याह व्यासः “षष्टिवर्षसहस्राणि दानच्छेद- फलत्तथा । आगामिनृपसामन्तबोधनायाभिलेखयेत्” इति । पष्टिवर्षसहस्राणीत्यादि पुराणवचतप्रसिद्धन्दा- गाच्छेदयोः दानापहारयोः स्वर्गाद्रिनरकादिफलं लेखयेद्राजेत्यर्थः ।”
शब्दकल्पद्रुमः
लेख्यं || त्रि (लिख + ण्यत ।)
लेखितव्यम् लेखनीयम् । इति लिखधातोः कर्म्मणि यप्रत्य- येन निष्पन्नम् ॥ * ॥
व्यवहाराङ्गकक्रियापादा- ङ्गम् । यथा, —
“षाण्मासिकेऽपि समये भ्रान्तिः संजायते यतः । धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥ लेख्यन्तु द्विविधं प्रोक्तं स्वहस्तान्यकृतन्तथा । असाक्षिकं साक्षिमच्च सिद्धिर्देशस्थितेस्तयोः ॥ मृतास्तु साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं करणमृते त्वाधेः स्थिराश्रयात् ॥ दर्शितं प्रतिकालञ्च पठितं श्रावितञ्च यत् । लेख्यं सिध्यति सर्व्वत्र मृतेष्वपि च साक्षिषु ॥” इति व्यवहारतत्त्वे बृहस्पतिः ॥ अपि च । साम्प्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्बिविधम् । शासनं जानपदञ्चेति । शासनं निरू- पितम् । जानपदमभिधीयते । तच्च द्विविधम् । स्वहस्तकृतमन्यकृतञ्चेति । तत्र स्वहस्तकृतम- साक्षिकम् । अन्यकृतं ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यदाह नारदः । “लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतन्तथा । असाक्षिमत् साक्षिमच्च सिद्धिदेशस्थितेस्तयोः ॥” इति ॥ तत्रान्यकृतमाह । “यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यन्तु साक्षिमत् कार्य्यन्तस्मिन् धनिकपूर्व्वकम् ॥” धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमितीयती च प्रतिमास्रं वृद्धिरिति निष्णातो व्यवस्थित- स्तस्मिन्नर्थ कालान्तरे विप्रतिपत्तौ वस्तुतत्त्व- निर्णयार्थं लेख्यम् । साक्षिमदुक्तलक्षणं साक्षि- युक्तम् । धनिकः पूर्व्वो यस्मिन् तद्धनिकपूर्व्वकम् । धनिकनामलेखनपूर्ब्बकमिति यावत् कार्य्यं कर्त्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः । “कर्त्त्रा तु यत् कृतं कार्य्यं सिद्ध्यर्थन्तस्य साक्षिणः । प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेख्यकम् ॥” इति स्मरणात् ॥ आप च । “समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्रितम् ॥” समा संवत्सरः । मासश्चैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णो वा । अहस्तिथिः प्रतिपदादिः । नाम धनिकाधमर्णयोः । जातिर्ब्राह्मणादिः । स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्रि- तम् । तथा सब्रह्मचारिकं बह्वृचादिशाखा- प्रयुक्तं गुणनामबह्वृचः कठ इति । आत्मीय- पितृनाम धनिकर्णिकपितृनाम । आदि ग्रह- णाद्द्रव्यजातिसंख्याचारादेर्ग्रहणम् । एतैश्चि- ह्रितं लेख्यं कार्य्यमिति गतेन सम्बन्धः । किञ्च । “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितम् ॥” धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थित- स्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनास्मिल्लेख्ये यदुपरि लेखितं तन्ममामुकपुत्त्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे लिखेत् । तथा, —
“साक्षिणश्च स्वहस्तेन पितृनामकपूर्ब्बकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥” तस्मिन् लेख्ये ये साक्षिणो लिखितास्तेऽप्या- त्मीयपितृनामलेखनपूर्ब्बकमस्मिन्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुस्ते च समाः संख्यातो गुणतश्च कर्त्तव्याः । यद्य- धमर्णः साक्षी वा लिपिज्ञो न भवति तदाध- मर्णोऽन्यन साक्षी च साक्ष्यन्तरेण सर्व्वसाक्षि- सन्निधौ स्वमतं लेखयेत् । यथाह नारदः । “अलिपिज्ञ ऋणी यः स्यात् स्वमतन्तु स लेख- येत् । साक्षी वा साक्षिणान्येन सर्व्वसाक्षी समीपतः ॥” इति । अपि च । “उभयाभ्यर्थ्यते नैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ततो लेखको धनिकाधमर्णिकाभ्यां उभाभ्यां प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥ * ॥
साम्प्रतं स्वकृतलेख्यमाह । “विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितन्तु यत् । तत् प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥” यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षि- भिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोप- धिकृतादृते । बलेन बलात्कारेण । उपधिना छललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्मा- द्विना । नारदोऽप्याह । “मत्ताभियुक्तस्त्रीबालबलात्कारकृतञ्च यत् । तदप्रमाणं लिखितं भयोपधिकृतन्तथेति ॥” तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशा- चारानुसारेण सवन्धकव्यवहारे वन्धकव्यवहार- युक्तमर्थक्रमापरिलोपन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावन्न पुनः साधुशब्दैरेव प्रातिस्विक- देशभाषयापि लेखनीयम् । यथाह नारदः । “देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् । तत् प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥” इति ॥ विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्ष- णम् । गोप्याधिर्भोग्याधिकालकृतमित्यादि तद्- व्यक्तं विस्पष्टं यस्मिंस्तद्ब्यक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्षरं अर्थानाक्रमः क्रमञ्चाक्षराणि च क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिं- स्तदविलुप्तक्रमाक्षरम् । तदेवं भूतं लिखितं प्रमा- णम् । राजशासनवन्न साधुशब्दनियमोऽत्रेत्यभि- प्रायः । लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेव देयमित्याह । ऋणं लेख्यकृतन्देयं पुरुषैस्त्रिभिरेव तु । यथा साक्ष्यादिकृतमृणन्त्रिभिरेव देयं तथा लेख्यकृतमप्याहर्त्तृपुत्त्रतत्पुत्रैस्त्रिभिरेव देयम् । न चतुर्थादिभिरिति नियम्यते । ननु पुत्त्रपौत्त्रै- रृणन्देयमित्यविशेषेणर्णमात्रन्त्रिभिरेव देयमिति नियतमेव । वाढमस्यैवोत्सर्गस्य पत्रारूढर्ण- विषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धम् । तथा हि । पत्रलक्षणमभिधाय कात्यायनेनाभिहितम् । एवं कालमतिक्रान्तं पितॄणान्दाप्यते ऋणमिति । इत्थं पत्रारूढ- मतिक्रान्तकालमपि पितॄणामपि पितॄणां सम्बन्धि दाप्यते । अत्र पितॄणामिति बहुवचननिर्द्देशात् कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्यत इति प्रतीयते । तथा हारीतेनापि । लेख्यं यस्य भवे- द्धस्ते लाभन्तस्य विनिर्द्दिशेदिति । अत्रापि यस्य हस्ते पत्रमस्ति तस्यर्णलाभ इति सामान्येन चतु- र्थादिभ्योऽप्यृणलाभोऽस्तीति प्रतीयते । अतश्चै- तदाशङ्कानिवृत्त्यर्थं एतद्वचनमिति युक्तम् । वचन- द्बयन्तु योगीश्वरवचनानुसारेण योजनीयम् ॥ * ॥
अस्यापवादमाह । आधिस्तु भुज्यते तावद्- यावत्तन्न प्रदीयते । सवन्धकेऽपि पत्रारूढे ऋणे त्रिभिरेव देयमिति नियमादृणापकरणानधि- कारेणाध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते ताव- देवाधिर्भुज्यत इति वदता सवन्धकर्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः । नन्वेतदप्ययुक्त- मेव फलभोग्यो न नश्यतीति सत्यम् । तदप्ये- तस्मिन्न सत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति सर्व्वमनवद्यम् ॥ * ॥
प्रासङ्गिकं परि- समाप्य प्रकृतमेवानुसरति । “देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धऽथवा च्छिन्ने लेख्यमन्यत्तु कारयेत् ॥” व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्य्यादिति विधी- यते । व्यवहाराक्षमत्वञ्चात्यन्तव्यवहितदेशान्त- रस्थे पत्रे दुर्लेख्ये दुष्टानि सन्दिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तद्दुर्लेख्यं तस्मिन्दुर्लेख्ये नष्टे कालवशेन उन्मृष्टे मसीदौर्ब्बल्यादिना मृदिते लिप्यक्षरे हृते तस्करादिभिर्भिन्ने विदलिते दग्धे अग्निना छिन्ने द्विधा भूते सति द्विर्भवति । एतच्चार्थि- प्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्यान्तु व्यवहाराप्राप्तौ देशान्तरस्थपत्रानयनाध्याना- पेक्षया कालो दातव्यः दुर्द्देशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्य्यः । यथाह नारदः । “लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो दृष्टदर्शनम् ॥” इति ॥ सतो विद्यमानपत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिदातव्यः । असतः पुनर- विद्यमानस्य पत्रस्य पूर्ब्बं ये द्रष्टारः साक्षिणस्तै- र्दर्शनं व्यवहारपरिसमापनं कुय्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्य्यः अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्द्दिशेदिति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् । राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेषः । “राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्रितन्तथा । राजकीयं स्मृतं लेख्यं सर्व्वेष्वर्थेषु साक्षिमत् ॥” इति ॥ * ॥
तथान्यदपि राजकीयं जयपत्रं वृद्धवशिष्ठेनोक्तम् । यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकञ्चैव जयपत्रकमिष्यते ॥ प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जयिने जयपत्रकमिति ॥ तथा । सभासदोऽपि मतं मेऽमुकपुत्त्रस्येति स्वहस्तं दद्युः । “सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथा लेख्यविधौ तद्बत् स्वहस्तं दद्युरेव ते ॥” इति मनुस्मरणात् ॥ सभासदाञ्च परस्परानुमतिव्यतिरेकेण व्यवहारो निःशल्यो भवति । यथाह नारदः । “यत्र सभ्यो जनः सर्व्वः साध्ये तदिति मन्यते । स निःशल्यो विवादः स्यात् सशल्यस्त्वन्यथा भवेत् ॥” इति । एतच्चतुष्पाद्व्यवहार एव । “साधयेत् साध्यमर्थं यच्चतुष्पादान्वितञ्च यत् । राजमुद्राङ्कितञ्चैव जयपत्रकमिष्यते ॥” इति स्मरणात् ॥ यत्र तु हीनता यथा । “अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आह्रतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥” इति ॥ तत्र न जयपत्रमस्ति अपि तु हीनपत्रमेव तच्च कालान्तरे दण्डप्राप्त्यर्थं जयपत्रं तु प्राङ्न्याय- विधिसिद्ध्यर्थमिति विशेषः । लेख्यसन्देहे निर्णयनिमित्तान्याह । “सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखिता- दिभिः । युक्तिप्राप्तिक्रियाचिह्रसम्बन्धागमहेतुभिः ॥” शुद्धमशुद्धञ्चेति सन्दिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्लेख्यान्तरन्तेन शुद्धिः । यदि सदृशान्यक्ष- राणि भवन्ति तदा शुद्धिः स्यादित्यर्थः । आदि- शब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसम्बा- दाच्छुद्धिरिति । युक्त्या प्राप्तिर्युक्तिप्राप्तिः । देश- कालपुरुषाणां द्रव्येण सह सम्बब्धः प्राप्तिः । अस्मिन्देशे अस्मिन् काले अस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिः । प्राप्तिः क्रिया तत्साक्ष्युप- न्यासः । चिह्रमसाधारणं श्रीकारादि । सम्बन्धः अर्थिप्रत्यर्थिनोः पूर्ब्बमपि परस्परविश्वासेन दान- ग्रहणादिसम्बन्धः । आगमोऽस्यैतावतोऽर्थस्य सम्भावितः प्राप्त्युपायः । एत एव हेतवः । एभिर्हेतुभिः सन्दिग्धलेख्यशुद्धिः स्यादित्यन्वयः । यदा तु लेख्ये सन्देहनिर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्य्यः । यथाह कात्यायनः । “दूषिते पत्रके वादी तदारूढांस्तु निर्द्दिशेत् ॥” इति । साक्षिसम्भवविषयमिदं वचनम् । साक्ष्यसम्भव- विषयन्तु हारीतवचनम् । “न मयैतत् कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत् पत्रमथ दिव्येन निर्णयः ॥” इति ॥ * ॥
एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेवर्णन्दातुमसमर्थस्तदा किं कर्त्तव्यमित्यत आह । “लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् । धनी चोपगतं दद्यात् स्वहस्तपरिचिह्रितम् ॥” यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा दत्त्वा पूर्व्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेदेतावन्मया दत्तमिति । उत्तमर्णो वा उपगतं प्राप्तं धनन्तस्यैव लेख्यस्य पृष्ठे दद्या- दभिलिखेदेतावन्मया लब्धमिति । कथं स्वहस्त- परिचिह्रितम् । स्वहस्तलिखिताक्षरचिह्रितम् । यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्रित- मधमर्णायोत्तमर्णो दद्यात् ॥ * ॥
ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्त्तव्यमित्यत आह । “दत्त्वर्णं पाटयेल्लेख्यं शुद्धौ चान्यत्तु कारयेत् ॥” क्रमेण सकृदेव वा कृत्स्नमृणन्दत्त्वा पूर्व्वकृतं लेख्यम्पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यलेख्यं कारयेदुत्तमर्णमधमर्णः पूर्ब्बोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रं अधमर्णाय दद्यादित्यर्थः ॥ * ॥
ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्त्तव्य- मित्यत आह । “साक्षिमच्च भवेत् यद्वा तद्दातव्यं ससाक्षिकम् ।” यत्तु ससाक्षिकमृणन्तत् पूर्व्वसाक्षिसमक्षमेव दद्यात् । इति लेख्यप्रकरणम् । इति मिता- क्षरायां व्यवहाराध्यायः ॥