शब्दकल्पद्रुमः
लेख्यस्थानं || क्ली (लेख्यस्य स्थानम् ।) लिख्यते यत्र । आफिस इति दप्तरखाना इति च म्लेच्छभाषा । तत्पर्य्यायः । ग्रन्थकुटी २ । इति शब्दरत्नावली ॥