वाचस्पत्यम्
लेपक || त्रि० लिम्प त लिप—ण्वुल् । १ लेपनकरे २ ज तिभेदे पलगण्डे पु० अमरः ।
शब्दकल्पद्रुमः
लेपकः || पुं, (लिम्पतीति । लिप् + ण्वु ल् ।)
जाति- विशेषः । राज इति थैकर इति च भाषा । तत्पर्य्यायः । पलगण्डः २ । इत्यमरः ॥ लेपी ३ । इति शब्दरत्नावली ॥ लेप्यकृत् ४ । इति हेम- चन्द्रः ॥ (लेपनकर्त्तरि, त्रि ॥)