संस्कृत-शब्दकोशः

लेण्ड लेपक

लेप

वाचस्पत्यम्

लेप ||‍ गमने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः । लेपते अलेषिष्ट ।


वाचस्पत्यम्

लेप ||‍ पु० लिप लेप—वा घञ् । १ भोजने, २ लेपने च मेदि० । कर्मणि घञ् । ३ सुधायाम् (कलिचुन) विश्वः । ४ पितृ- दत्तपिण्डशेषे “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्ड- भागिनः” स्मृतिः ।


शब्दकल्पद्रुमः

लेप || ऋ ङ गमने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ऋ, अलिलेपत् । ङ, लेपते लिलेपे । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लेपः || पुं, (लिप + घञ् ।)
लेपनम् । (यथा, मार्क- ण्डेये । ३५ । १५ । “भूमिर्विशुध्यते कालात् दाहमार्ज्जनगोक्रमैः । लपादुल्लेखनात् सेकाद्वेश्मसंमार्ज्जनार्च्चनात् ॥”)
भोजनम् । इति मेदिनी । पे, १० ॥ (लिप्यते- ऽनेनेति ।)
सुधा । इति विश्वः ॥ चुन इति भाषा ॥



Correction: