संस्कृत-शब्दकोशः

लेलिहा लेलिहाना

लेलिहान

वाचस्पत्यम्

लेलिहान ||‍ पु० लिह यङ् लुक् ताच्छील्ये चानश् । १ शिवे शब्दर० २ सर्पे पुंस्त्री० हेमच० । ३ पुनःपुनलेहनकरे त्रि० तारादेवतापूजाङ्गे अङ्गुल्यादिसन्निवेशविशेषरूपे ४ मुद्रा- भेदे स्त्री । तल्लक्षणं यथा “वक्त्रं विस्तारितं कृत्वाप्यधो जिह्वां च चालयेत् । पार्श्वस्थं मुष्टियुगलं लेलिहा- नेति कीर्त्तिता” तन्त्रसा० ।


शब्दकल्पद्रुमः

लेलिहानः || पुं, (पुनःपुनरतिशयेन वा लेढीति । लिह् + यङ् + शानच् ।)
शिवः । इति शब्द- रत्नावली ॥ सर्पः । इति हेमचन्द्रः ॥ पुनःपुन- र्लेहनकर्त्तरि, त्रि ॥ (यथा, महाभारते । १ । २३३ । ५ । “सप्तजिह्वाननः क्रूरो लेलिहानो विसर्पति ॥”)



Correction: