संस्कृत-शब्दकोशः

लेलिहान लेश

लेलिहाना

शब्दकल्पद्रुमः

लेलिहाना || स्त्री (लेलिहान + स्त्रियां टाप् ।)
मुद्राषिशेषः । यथा, —
“वक्त्रं विस्तारितं कृत्वाप्यधो जिह्वाञ्च चाल- येत् । पार्श्वस्थं मुष्टियुगलं लेलिहानेति कीर्त्तिता ॥” एषा ताराराधने । अन्या लेलिहाना वक्तव्या । “योनिर्म्मायाधरः सेन्दुर्वधूः कूर्च्चं क्रमाद्विदुः ॥ बीजानि चोच्चरन् मन्त्री मुद्राबन्धनमाचरेत् । तर्ज्जनीमध्यमानामाः समं कुर्य्यादधोमुखम् ॥ अनामायां क्षिपेद्वृद्धां ऋज्वीं कृत्वा कनि- ष्ठिकाम् । लेलिहानाख्यमुद्रेयं जीवन्यासे प्रकीर्त्तिता ॥” इति तन्त्रसारः ॥



Correction: