लेष्टुघ्न
लेसिक
लेष्टुभेदन
शब्दकल्पद्रुमः
लेष्टुभेदनः || पुं, (लेष्टुं भिनत्तीति । भिद् + ल्युट् ।)
लोष्टभङ्गसाधनमुद्गरः । मै इति ख्यातः । इति केचित् । इति भरतः ॥ तत्पर्य्यायः कोटिशः २ । इत्यमरः ॥ कोटीशः ३ । इति रत्नकोषः ॥ लेष्टुघ्नः ४ लेष्टुभेदी ५ चूर्णदण्डः ६ । इति शब्दरत्नावली ॥