शब्दकल्पद्रुमः
लेहनं || क्ली (लिह् + ल्युट् ।) जिह्वया रस- ग्रहणम् । चाटन इति भाषा । तत्पर्य्यायः । जिह्वास्वादः २ । इति हेमचन्द्रः ॥