वाचस्पत्यम्
लैङ्ग || न० लिङ्गमधिकृत्य कृतो ग्रन्थः अण् । अष्टादशसु महा- पुराणेषु एकादशे १ महापुराणे । लिङ्गं तदाकारः अस्त्यस्याः फलेषु अण् ङीप् । २ लिङ्गिनीवृक्षे स्त्री राजनि० तस्येदमण । २ लिङ्गसम्बद्धे त्रि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
लैङ्गं || क्ली (लिङ्गमधिकृत्य कृतो ग्रन्थ इति । लिङ्गस्येदमिति वा । लिङ्ग + अण् ।)
लिङ्ग- पुराणम् । यथा, —
“मात्स्यं कौर्म्म्यंतथालैङ्गं शैवं स्कान्दन्तथैव च ॥” इत्यादि पाद्मोत्तरखण्डे ३४ अध्यायः ॥ (अस्य विवरणादिकं पुराणशब्दे द्रष्टव्यम् ॥)