वाचस्पत्यम्
लोकजित् || पु० लोक लोकाचारं जितवान् जि—क्विप । बुद्धे अमरः ।
शब्दकल्पद्रुमः
लोकजित् || पुं, (लोकं जितवानिति । जि + क्विप् ।)
बुद्धः । इत्यमरः ॥ (लोकजेतरि, त्रि । यथा, शतपथब्राह्मणे । १४ । ४ । १ । ३३ । “यं कामं कामयते तमागायति तद्वै तल्लोक- जिदेव ॥”)