संस्कृत-शब्दकोशः

लोकतुषार लोकपाल

लोकनाथ

शब्दकल्पद्रुमः

लोकनाथः || पुं, (लोकानां नाथः ।)
बुद्धः । इति त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् । १ । १३८ । “लोके भगवतो लोकनाथादारभ्य केचन ये जन्तवो गतक्लेशान् बोधिसत्तानवेहि तान् ॥”)
ब्रह्मा । इति शब्दरत्नावली ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ शिवः । यथा, —
“अकिञ्चनः सन् प्रभवः स सम्पदां स लोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्य्यते न सन्ति याथार्थ्यविदः पिणाकिनः ॥” इति कुमारसम्भवम् ॥ (तथा च महालिङ्गार्च्चनतन्त्रे शिवशतनाम- स्तोत्रे । “त्रैलोक्ये लोकनाथश्च रुद्रलोके महेश्वरः ॥” वटिकौषधविशेषः । तद्यथा, —
“पारदं गन्धकञ्चैव समभागं विचूर्णयेत् । मृताभ्रं रसतुल्यञ्च पुनस्तेनैव मर्द्दयेत् ॥ रसाद्द्विगुणलौहञ्च लौहतुल्यञ्च ताम्रकम् । भस्मवराटिकायाश्च ताम्रतस्त्रिगुणं क्षिपेत् ॥ नागवल्लीदलेनैव मर्द्दयेद्यत्नतो भिषक् । पचेद्गजपुटेनैव स्वाङ्गशीतं समुद्धरेत् ॥ यकृत्प्लीहोदरहरः गुल्मश्वयथुनाशनः । पिप्पलीमधुसंयुक्तां सगुडां वा हरीतकीम् ॥ गोमूत्रञ्च पिबेच्चानु गुडं वा जीरकान्वि- तम् ॥” इति लोकनाथो रसः ॥ इति वैद्यकरसेन्द्रसार- संग्रहे यकृत्प्लीहाधिकारे ॥ * ॥
लोकप्रभौ, त्रि । यथा, गो ० रामायणे । २ । ३३ । १६ । “लोकनाथस्य रामस्य पीडया पीडितं जगत् । अपर्व्वणीव सोमस्य राहुग्रहणपीडया ॥”)



Correction: