वाचस्पत्यम्
लोकपाल || पु० लोकान् पालयति पा—णिच अण । १ लाक- पालके नृपे, ३ इन्द्रादिदिकपाले, ३ विनायकादिषु पञ्चसु । ४ लोकरक्षकमात्रे त्रि० । लोकनाथादयोऽप्यत्र ।
शब्दकल्पद्रुमः
लोकपालः || पुं, (लोकान् पालयतीति । पाल + णिच् + अण् ।)
राजा । इति हलायुधः ॥ (यथा, राजतरङ्गिण्याम् । १ । ३४९ । “उत्तमो लोकपालोऽयमिति लक्ष्म प्रशस्तिषु । यः प्राप्तवान् विना यज्ञं चक्षमे न पशुक्षयम् ॥”)
दिक्पालः । यथा, —
“इन्द्रो वह्रिः पितृपतिर्निरृतिर्वरुणोऽनिलः । धनदः शङ्करश्चैव लोकपालाः पुरातनाः ॥” इति वह्निपुराणम् ॥ (यथा च, मनुः । ५ । ९६ । “सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः ॥”)