शब्दकल्पद्रुमः
लोकमाता || स्त्री (लोकानां मातेव ।) लक्ष्मीः । इत्यमरः ॥ (लक्षणया लोकजननीसमापि च । यथा, भागवते । २ । ३ । ५ । “प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥”)