संस्कृत-शब्दकोशः

लोकायतिक लोकेश

लोकालोक

वाचस्पत्यम्

लोकालोक ||‍ पु० ल क्यतेऽसौ लोकः न लोक्यतेऽसौ कर्म्म० । स्वनामख्याते सूर्प्यकिरणसम्पर्कसीमापर्बते । तस्य च पार्श्वयोरातपानातपमम्बन्धात्तथात्वम ।


शब्दकल्पद्रुमः

लोकालोकः || पुं, (लोक्यतेऽसौ इति लोकः । न लोक्यतेऽसौ इति अलोकः । ततः कर्म्म- धारयः ।)
स्वनामख्यातपर्व्वतः । तत्पर्य्यायः । चक्रवाडः २ । इत्यमरः ॥ द्वे साब्धिद्बीपां महीमावेष्ट्य प्राकारवत् स्थिते गिरौ लोकालोक इति स्वनामख्याते । अन्तर्लोक्यते सूर्य्यरश्मिभिः स्पृश्यमानत्वात् इति लोकः । तथा बहिः मूर्य्यकिरणास्पर्शात् न लोक्यते इति अलोकः । लोकृ ञीक्षे कर्म्मणि घञ् लोकश्चासौ अलोक- श्चेति लोकालोकः । चक्रं महीचक्रं वण्डते वेष्टयति चक्रवाडः । वडि ङ वेष्टे च षण्- ज्ञापकसिद्धस्यानित्यत्वात् न नुण् । इति भरतः ॥ (यथा, रघुः । १ । ६८ । “मोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चाप्रकाशश्च लोकालोक इवाचलः ॥” अस्य विवरणं यथा देवीभागवते । ८ । १४ । १-१५ । श्रीनारायण उवाच । “ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोयः परिकल्पितः ॥ यावदस्ति च देवर्षे ह्यन्तरं मानसोत्तरात् । सुमेरोस्तावती शुद्धा काञ्चनी भूमिरस्ति हि ॥ दर्पणोदरतुल्या सा सर्व्वप्राणिविवर्ज्जिता । यस्यां पदार्थः प्रहितो न किञ्चित् प्रत्युदीयते ॥ अतः सर्व्वप्राणिसङ्घरहिता सा च नारद ! । लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥ लोकालोकान्तरे चास्य वर्त्तते सर्व्वदा स्थितिः । ईश्वरेण सलोकानां त्रयाणामन्तगः कृतः ॥ सूर्य्यादीनां ध्रुवान्तानां रश्मयो यद्वशादिह । अर्व्वाचीनाश्च त्रीँ ल्लोकानातन्वानाः कदापि हि ॥ पराचीनत्वभाजो हि न भवन्ति च नारद ! । तावदुन्नहनायामः पर्व्वतेन्द्रो महोदयः ॥ एतावाँल्लोकविन्यासोऽयं संस्थामानलक्षणैः । कविभिः स तु पञ्चाशत्कोटिभिर्गणितस्य च ॥ भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने ! । तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ॥ निवेशिता दिग्गजा ये तन्नामानि निबोधत । ऋषभः पुष्पचूडोऽथ वामनोऽथापराजितः ॥ एते समस्तलोकस्य स्थिहिहेतव ईरिताः । तेषाञ्च स्वविभूतीनां बहुवीर्य्योपबृंहणम् ॥ विशुद्धसत्त्वञ्चैश्वर्य्यं वर्द्धयन् भगवान् हरिः । आस्ते सिद्ध्यष्टकोपेतो विष्वक्सेनादिसंवृतः ॥ निजायुधैः परिवृतो भुजदण्डैः समं ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥ आकल्पमेवं वेशं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥ योऽन्तर्व्विस्तार एतेन ह्यलोकपरिमाणकम् । व्याख्यातं यद्बहिर्लोकालोकाचल इती- रणात् ॥” * ॥
लोकश्च अलोकश्च तौ । सूर्य्याद्यालोकविशिष्ट- तद्रहितदेशौ । अत्र द्बिवनप्रयोगः स्यात् । यथा, भागवते । ५ । २० । ३४ । “ततः परस्तात् लोकालोकनामाचलो लोका- लोकयोरन्तराले परित उपकॢप्तः ॥”)



Correction: