शब्दकल्पद्रुमः
लोकेश्वरः || पुं, (लोकानामीश्वरः ।)
बुद्धभेदः । इति त्रिकाण्डशेषः ॥ भुवनानां जनानां प्रभुश्च ॥ (यथा, महाभारते । ३ । ११४ । १९ । “अवसीदच्च कौन्तेय दत्तमात्रा मही तदा । उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥”)
लाकपालः । यथा, महाभारते । ८ । ३४ । २९ । “ग्रहनक्षत्रताराभिश्चर्म्म चित्रं नभस्तलम् । सुराम्बुप्रेतवित्तानां पतीन् लोकेश्वरान् हयान् ॥”)