वाचस्पत्यम्
लोचन || न० लोच्यतेऽनेन लोच—करणे ल्युट् । १ नेत्रे अमरः । भावे ल्युट् । २ दर्शनक्रियायाम् । युच् । ३ दर्शने ४ आ- लोचने च स्त्री टाप् अमरः । ३ महाप्राणिकीटे स्त्री राजनि० ङीप् ।
शब्दकल्पद्रुमः
लोचनं || क्ली (लोचतेऽनेनेति । लोच + ल्युट् ।)
चक्षुः । इत्यमरः ॥ तस्य शुभाशुभलक्षणं यथा, —
“वक्रान्तैः पद्मपत्राभैर्लोचनैः सुखभागिनः । मार्जारलोचनैः पापो महात्मा मधुपिङ्गलैः ॥ क्रूराः केकरनेत्राश्च हरिणाक्षाः सकल्मषाः । जिह्मैश्च लोचनैः क्रूराः सेनान्यो गजलोचनाः ॥ गम्भीराक्षा ईश्वराः स्युर्मन्त्रिणः स्थूलचक्षुषः । नीलोत्पलाक्षा विद्वांसः सौभाग्यं श्यावचक्षु- षाम् ॥ स्यात् कृष्णतारकाक्षाणामक्ष्णामुत्पाटनं किल । मण्डलाक्षाश्च पापाः स्युर्निःस्वाः स्युर्दीर्घ- लोचनाः ॥ दृक् स्निग्धा विपुला भोगे अल्पायुर्नाभि- रुन्नता । विशालोन्नता सुखिनो दरिद्रा विषमभ्रुवः ॥” इति गारुडे ६५ अध्यायः ॥